एकश्लोकिमहाभारतम् ।

आदौ पाण्डवधार्तराष्ट्रजननं लाक्षागृहे दाहनं

द्यूते श्रीहरणं वने विहरणं मत्स्यालये वर्धनम् ।
लीलागोग्रहणं रणे वितरणं सन्धिक्रियाजृम्भणं
भीष्मद्रोणसुयोधनादिमथनं एतन्महाभारतम् ॥