।। अगस्त्योक्त-आदित्यहृदय-स्तोत्रम् ।।

श्री गणेशाय नमः ।

ततो युद्धपरिश्रान्तं
समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्ट्वा
युद्धाय समुपस्थितम् ।। १ ।।

दैवतैश्च समागम्य
द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद् रामम्
अगस्त्यो भगवांस्तदा ।। २ ।।

राम राम महाबाहो
शृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स
समरे विजयिष्यसे ।। ३ ।।

आदित्यहृदयं पुण्यं
सर्वशत्रुविनाशनम् ।
जयावहं जपेन्नित्यम्
अक्षयं परमं शिवम् ।। ४ ।।

सर्वमङ्गलमाङ्गल्यं
सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनम्
आयुर्वर्धनमुत्तमम् ।। ५ ।।

रश्मिमन्तं समुद्यन्तं
देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं
भास्करं भुवनेश्वरम् ।। ६ ।।

सर्वदेवात्मको ह्येष
तेजस्वी रश्मिभावनः ।
एष देवः सुरगणान्
लोकान् पातु गभस्तिभिः ।। ७ ।।

एष ब्रह्मा च विष्णुश्च
शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो
यमः सोमो ह्यपां पतिः ।। ८ ।।

पितरो वसवः साध्या
अश्विनौ मरुतो मनु: ।
वायुर्वह्निः प्रजाप्राणा
ऋतुकर्ता प्रभाकरः ।। ९ ।।

आदित्यः सविता सूर्यः
खगः पूषा गभस्तिमान् ।
सुवर्णस्तपनो भानुः
स्वर्णरेता दिवाकरः ।। १० ।।

हरिदश्वः सहस्रार्चिः
सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनः शम्भुस्-
त्वष्टा मार्तण्डकोंऽशुमान् ।। ११ ।।

हिरण्यगर्भः शिशिरस्-
तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः
शङ्खः शिशिरनाशनः ।। १२ ।।

व्योमनाथस्तमोभेदी
ऋग्यजुःसामपारगः ।
घनवृष्टिरपां मित्रो
विन्ध्यवीथी प्लवङ्गमः ।। १३ ।।

आतपी मण्डली मृत्युः
पिङ्गलः सर्वतापनः ।
कविर्विश्वो महातेजा
रक्तः सर्वभवोद्भवः ।। १४ ।।

नक्षत्रग्रहताराणाम्
अधिपो विश्वभावनः ।
तेजसामपि तेजस्वी
द्वादशात्मन् नमोऽस्तु ते ।। १५ ।।

नमः पूर्वाय गिरये
पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये
दिनाधिपतये नमः ।। १६ ।।

जयाय जयभद्राय
हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो
आदित्याय नमो नमः ।। १७ ।।

नम उग्राय वीराय
सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय
प्रचण्डाय नमोऽस्तु ते ।। १८ ।।

ब्रह्मेशानाच्युतेशाय
सूरायादित्यवर्चसे ।
भास्वते सर्वभक्षाय
रौद्राय वपुषे नमः ।। १९ ।।

तमोघ्नाय हिमघ्नाय
शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय
ज्योतिषां पतये नमः ।। २० ।।

तप्तचामीकराभाय
हरये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय
रुचये लोकसाक्षिणे ।। २१ ।।

नाशयत्येष वै भूतं
तदेव सृजति प्रभुः ।
पायत्येष तपत्येष
वर्षत्येष गभस्तिभिः ।। २२ ।।

एष सुप्तेषु जागर्ति
भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च
फलं चैवाग्निहोत्रिणाम् ।। २३ ।।

देवाश्च क्रतवश्चैव
क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु
सर्वेषु परमः प्रभुः ।। २४ ।।

एनमापत्सु कृच्छ्रेषु
कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्-
नावसीदति राघव ।। २५ ।।

पूजयस्वैनमेकाग्रो
देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्त्वा
युद्धेषु विजयिष्यसि ।। २६ ।।

अस्मिन् क्षणे महाबाहो
रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो
जगाम स यथागतम् ।। २७ ।।

एतच्छ्रुत्वा महातेजा
नष्टशोकोऽभवत् तदा ।
धारयामास सुप्रीतो
राघवः प्रयतात्मवान् ।। २८ ।।

आदित्यं प्रेक्ष्य जप्त्वेदं
परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा
धनुरादाय वीर्यवान् ।। २९ ।।

रावणं प्रेक्ष्य हृष्टात्मा
युद्धार्थं समुपागमत् ।
सर्वयत्नेन महता
वधे तस्य धृतोऽभवत् ।। ३० ।।

अथ रविरवदन्निरीक्ष्य रामम्
मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसङ्क्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति ।। ३१ ।।

इति श्रीवाल्मीकीरामायणे अगस्त्यप्रोक्तम् आदित्यहृदयस्तोत्रं सम्पूर्णम् ।।
।। श्रीकृष्णार्पणमस्तु ।।